________________
उत्तराध्ययन
२२ ॥
एकविंशमध्ययनम्
गा४-९
मूलम्-अह पालिअस्स घरणी, समुइंमि पसवई ।अह दारए तहिं जाए, समुद्दपालित्ति नामए ॥४॥
व्याख्या-'तहिति' तत्र समुद्रे ॥४॥ मूलम्-खेमेण आगए चंपं, सावए वाणिए घरं ।संवड्ढए घरे तस्स, दारए से सुहोइए ॥५॥ बावत्तरि कलाओ अ, सिक्खिए नीइकोविए । जोवणेण य संपन्ने, सुरूवे पिअदंसणे ॥६॥ तस्स रूववई भजं, पिआ आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा॥७॥
व्याख्या-रूविणिति' रूपिणीसंज्ञा, प्रासादे क्रीडति, तया सहेति शेषः॥५॥६॥७॥ मूलम्-अह अन्नया कयाइ, पासायालोअणे ठिओ। वज्झमंडणसोभागं, वज्झं पासइ वज्झगं ॥८॥ - व्याख्या-अथान्यदा कदाचित् प्रासादालोकने गवाक्षे स्थितः सन् समुद्रपालो वध्यमण्डनानि रक्तचन्दनकरवीरादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं वध्यं वधार्ह कञ्चन तादृशाकार्यकारिणं पश्यति, वध्ये वध्यभूमौ गच्छतीति वध्यगस्तं, इहोपचाराद्वध्यशब्देन वध्यभूरुक्ता ॥८॥ मूलम्-तं पासिऊण संवेग, समुद्दपालो इणमब्बवी। अहो असुहाण कम्माणं, निजाणं पावगं इमं ॥९॥
व्याख्या-तं दृष्ट्वा संवेगं संवेगकारणं समुद्रपाल इदं वक्ष्यमाणमब्रवीत् , अहो ! अशुभानां कर्मणां निर्याणमवसानं विपाक इत्यर्थः, पापकमशुभमिदं प्रत्यक्षं, यदयं वराको वधार्थमित्थं नीयते ॥९॥
४
UTR-3