________________
उत्तराध्ययन ॥ २१ ॥
॥ अथ एकविंशमध्ययनम् ॥
एकविंशमध्ययनम् गा-३
॥ॐव्याख्यातं विंशतितममध्ययनं, अथैकविंशं समुद्रपालीयाख्यमारभ्यते। अस्य चायं सम्बन्धोऽनन्तराध्ययनेऽनाथत्वमुकं, तच परिभाव्य विविक्तचर्यया चरितव्यं । सा च समुद्रपालदृष्टान्तेनानेनोच्यते, इति सम्बन्धस्यास्पदमादिसूत्रम्मूलम्-चंपाए पालिए नामं, सावए आसि वाणिए । महावीरस्स भगवओ, सीसे सो उमहप्पणो॥१॥ व्याख्या-महावीरस्य भगवतः शिष्यः 'सो उत्ति' स पुनः, तच्छिष्यता चास्य तत्प्रतिबोधितत्वात् ॥१॥ मूलम्-निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहुंडं नगरमागए ॥२॥ व्याख्या नैर्ग्रन्थे निम्रन्थसम्बन्धिनि प्रवचने स पालितो 'विकोविएत्ति' विशेषेण कोविदो विकोविदः, पोतेन प्रवहणेन व्यवहरन् व्यापारं कुर्वन् , पिहुंडं पिहुंडसंज्ञम् ॥२॥ मूलम्-पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पत्थिओ ॥३॥
व्याख्या-वाणिो देह धूअरंति' तद्गुणाकृष्टचेताः कोऽपि वणिग् ददाति दुहितरं पुत्री, तां ससत्त्वां सगी प्रतिसादाय खदेशमथ प्रस्थितः ॥३॥
UTR-3