________________
उत्तराध्ययन ॥२९४॥
द्वात्रिंशमध्ययनम्.
गा २२
प्रवर्तयितुं, किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, निसृजेत्कुर्यात्कदाचित् । न च नैवामनोज्ञेषु मनोऽपि कुर्यादिन्द्रियाणि प्रवर्त्तयितुमितीहापि गम्यं, अपेरर्थः प्राग्वत् , समाधिरिह रागद्वेषाभावरूपस्तं कामयते इति समाधिकामः श्रमणः तपस्वीति सूत्रद्वादशकार्थः ॥ २१ ॥ इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्य इन्द्रियाणां निवर्त्तनमुपदिष्टं, अथ विषयेषु तत्प्रवर्त्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि मनश्चाश्रित्य दर्शयितुमष्टसप्ततिं सूत्राण्याह । तत्रापि चक्षुराश्रित्य प्रयोदशसूत्राणि
मूलम्-चक्खुस्स रूवं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु ।
तं दोसहेडं अमणुण्णमाहु, समो उ जो तेसु स वीअरागो ॥ २२ ॥ व्याख्या-चक्षुपो रूपं गृह्यतेऽनेनेति ग्रहणमाक्षेपकं वदन्ति, ततः किमित्याह-तद्रूपं रागहेतुं तुः पूतौ मनोज्ञमाहुः, तथा तद्रूपमेव द्वेषहेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोषः स्यादिति भावः । आहवं न कोऽपि सति रूपे वीतरागः स्यादत आह-समस्त्वरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च । अयं भावः-न तावत्तयोश्चक्षुः प्रवर्त्तयेत् , कथञ्चित्प्रवृत्तौ तु समतामेवावलम्बेतेति ॥ २२ ॥ ननु यद्येवं तर्हि रूपमेव रागद्वेषजनकं, न तु चक्षुस्तत्किं चक्षुर्निग्रहेणेति शङ्कापोहायाह
UTR-3