SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२९५॥ द्वात्रिंशमध्ययनम्गा२३-२४ ३ मूलम्-रूवस्स चक्खं गहणं वयंति, वक्खुस्स रूवं गहणं वयंति। रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ २३ ॥ व्याख्या-रूपस्य चक्षुर्गलातीति ग्रहणं ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृह्यते इति ग्रहणं ग्राह्यं वदन्ति अनेन रूपचक्षुषोरन्योन्यं ग्राह्यग्राहकभावलक्षणः सम्बन्धो दर्शितस्ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं भवति अत एवाह-रागस्सेत्यादि-रागस्य हेतुं प्रक्रमाचक्षुः सह मनोजेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोजं मनोज्ञरूपरहितमाहुस्ततो युक्त एव चक्षुपो निग्रह इति भावः ॥ २३ ॥ इत्थं रागद्वेषोद्धरणोपायमुक्त्वा तदनुद्धरणे दोषमाह मूलम्-रूवेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मधु ॥ २४ ॥ व्याख्या-रूपेषु यो गृद्धिं रागमुपैति तीव्रां अकाले भवमाकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलोऽतिस्निग्धदीपशिखादर्शनलम्पटः समुपैति मृत्युम् ॥ २४ ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy