SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२९३॥ द्वात्रिंशमध्ययनम्. गा२०-२१ व्याख्या-कामेषु अनुरद्धिः सतताभिकांक्षा कामानुगृद्धिस्तत्प्रभवमेव, खुशब्दस्यावधारणार्थत्वात् , दुःखं सर्वस्य लोकस्य सदेवकस्य, यत्कायिकं मानसिकं च किञ्चिदल्पमपि, तस्यान्तमेवान्तकं गच्छति वीतरागो विगतकामानु. गृद्धिः ॥ १९ ॥ ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते मूलम्-जहा य किंपागफला मणोरमा, रसेण वपणेण य भुजमाणा। ते खुदए जीविअ पच्चमाणा, एओवमा कामगुणा विवागे ॥ २० ॥ व्याख्या-यथा च यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च-शब्दाद्गन्धादिना च भुज्यमानानि, तानि लोकप्रतीतानि 'खुद्दएत्ति' आषत्वात्क्षोदयन्ति विनाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमाः कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भावः ॥ २०॥ एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह मूलम्-जे इंदिआणं विसया मणुण्णा, न तेसु भावं निसिरे कयाई । न यामणुण्णेसु मणंऽपि कुजा, समाहिकामे समणे तवस्सी ॥ २१ ॥ व्याख्या-ये इन्द्रियाणां विषया मनोज्ञाः न तेषु भावं अभिप्रायं अपेर्गम्यत्वात् भावमपि प्रक्रमादिन्द्रियाणि UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy