________________
उत्तराध्ययन ॥२९॥
द्वात्रिंशमध्ययनम्.
गा१३-१४
मलम-जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसस्था ।
एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥ व्याख्या-यथा बिडालावसथस्य मार्जारगृहस्य मूले समीपे न मूपकानां वसतिः स्थितिः प्रशस्ता, अवश्यं तत्र तदपायसम्भवात् , एवमेव स्त्रीणामुपलक्षणात्पण्डकादीनां च निलयो निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः क्षमो युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥ १३ ॥ विविक्तवसतावपि कदाचित्स्त्रीसम्पाते यत्कतैव्यं तदाह
मूलम्-न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहि वा।
इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ॥ १४ ॥ व्याख्या-न नैव रूपं सुसंस्थानत्वं, लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः, हासःप्रतीतः, एषां समाहारः, न जल्पितमुलपितं, 'इंगित्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा समुच्चये स्त्रीणां सम्बन्धि चित्ते निवेश्य, अहो! सुन्दरमिदमिति विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयतां नेतुं व्यवस्वेदध्यवस्येत् श्रमणः तपखी ॥ १४ ॥ कुत एवमुपदिश्यते ? इत्याह
UTR-3