________________
उत्तराध्ययन
॥ २८९ ॥
३
o
१२
समभिद्रवन्ति । कमिव के इव ? इत्याह- द्रुमं यथा खादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः पक्षिण इव । इह द्रुमोपमः पुमान्, खादुफलकल्पं हसत्वं, पक्षितुल्याः कामाः ॥ १० ॥ किञ्च -
मूलम् - जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ ।
एविंदिअग्गीवि पगामभोइणो, न वंभयारिस्स हिआय कस्सइ ॥ ११ ॥
व्याख्या- यथा दवाग्निः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपैति एवं दवानिवत् 'इंदियग्गिति' इहेन्द्रियशब्देन इन्द्रियजनितो राग एव गृह्यते स एव धर्मद्रुमदाहकत्वादग्निरिन्द्रियाभिः सोऽपि प्रकामभोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ॥ ११ ॥ अन्यच
मूलम् — त्रिवित्तसे जासणजंतिआणं, ओमासणाणं दमिइंदिआणं । नरागसत्तू धरिसेइ चित्तं पराइओ वाहिरिवोसहेहिं ॥ १२ ॥
व्याख्या - विविक्ता ख्यादिवियुक्ता शय्या वसतिस्तस्यामासनमवस्थानं तेन यंत्रिता नियंत्रिता विविक्तशय्यासनयंत्रितास्तेषां अवमाशनानां न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुर्द्धर्षयति पराभवति चित्तं, क इव ? पराजितः पराभूतो व्याधिः कुष्ठादिरिवौषधैर्गदुच्यादिभिर्देहमिति गम्यते ॥ १२ ॥ विविक्तवसत्यभावे दोषमाह -
द्वात्रिंश
मध्ययनम्. गा११-१२
UTR-3