________________
उत्तराध्ययन ॥२९॥
द्वात्रिंशमध्ययनम्. गा१५-१६
६
मूलम्-अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च ।
__ इत्थीजणस्सारियझाणजुग्गं, हिअं सया बंभचेरे रयाणं ॥ १५ ॥ व्याख्या-अदर्शनं च, एवोऽवधारणे, ततः अदर्शनमेव, अप्रार्थनं चाऽनभिलषणं, अचिन्तनं चैव रूपाद्यपरिभावनं, अकीर्तनं च नामतो गुणतो वा स्त्रीजनस्य, आर्यध्यानं धर्मादि तद्योग्यं तद्धेतुत्वेनोचितं आर्यध्यानयोग्यं, हितं पथ्यं, सदा ब्रह्मचर्ये रतानां । ततो न स्त्रीणां रूपादि सरागं द्रष्टुं व्यवस्वेदिति स्थितम् ॥ १५॥ ननु विकारहेतौ सति ये निर्विकाराः स्युस्त एव धीरास्त िविविक्तशयनासनत्वमिष्यते ? इत्याशंक्याह
मूलम्-कामं तु देवीहिं विभूसिआहिं, न चाइआ खोभइउं तिगुत्ता।
तहावि एगंतहिअंति नच्चा, विवित्तभावो मुणिणं पसत्थो ॥ १६ ॥ __ व्याख्या-'कामं तुत्ति' अनुमतमेवैतत् यद्देवीभिरपि आस्तां मानुषीभिभूषिताभिरलङ्कृताभिः न नैव 'चाइअत्ति' शकिताः क्षोभयितुं चलयितुं त्रिगुप्ताः मुनयः, तथापि एकान्तं हितमिति ज्ञात्वा विविक्तभावो मुनीनां प्रशस्तोऽन्तर्भावितणिगर्थतया प्रशंसितो जिनाद्यैः । अयं भावः-ख्यादिसङ्गे प्रायो योगिनोऽपि क्षुभ्यन्ति येपि न धुभ्यन्ति तेऽप्यवर्णादिदोषभाजो भवन्तीति विविक्तत्वमेव श्रेयः ॥ १६ ॥ इदमेव समर्थयितुं स्त्रीणां दुरतिक्रमत्वमाह
UTR-3