________________
उत्तराध्ययन ॥२८७॥
द्वात्रिंशमध्ययनम्. गा ७-८
मूलम्-रागो य दोसोवि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति ।
__कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥७॥ व्याख्या-रागश्च द्वेषोपि च कर्मणो ज्ञानावरणादेबीजं कारणं, अत एव कर्म च मोहप्रभवं मोहोपादानकारणं वदन्ति । कर्म च जातिमरणस्य मूलं कारणं, दुःखं च दुःखहेतुः पुनर्जातिमरणं वदन्ति ॥७॥ यतश्चैवमतः किं स्थितमित्याह
मूलम्-दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तण्हा।
तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ॥८॥ व्याख्या-दुःखमुक्तरूपं हतमिव हतं, केनेत्याह-यस्य न भवति मोहो मोहस्यैव तन्मूलहेतुत्वात् । मोहो हतो यस्य न भवति तृष्णा, मोहायतनत्वात् तस्याः । तृष्णा हता यस्य न भवति लोभः, तृष्णाशब्देनोक्तनीत्या रागद्वेष| योरुक्तत्वात् , तयोश्च लोभक्षये सर्वथैवाभावात् , अत एव प्राधान्यात् रागान्तर्गतत्वेपि लोभस्य पृथग्ग्रहणं । लोभी हतो यस्य न किञ्चनानि द्रव्याणि सन्तीति शेषः, सत्सु हि तेषु प्रायः स्यादेवाभिकांक्षेति सूत्रत्रयार्थः ॥८॥ ननु सन्तु दुःखस्य मोहाद्या हेतवो हननोपायस्तषां पूर्वोक्त एव उतान्यपि सन्तीत्याशक्य सविस्तरं तदुन्मूलनोपायान् विवक्षुः प्रस्तावनामाह
UTR-3