________________
उत्तराध्ययन ॥२८६॥
द्वात्रिंशमध्ययनम्. (३२) गा
कामेषु असजन् प्रतिबन्धमकुर्वन् । तथाविधगीतार्थविषयं चैतदन्यथा एकाकिविहारस्यागमे निषिद्धत्वात् । एतदुक्तौ च मध्यग्रहणे आद्यन्तग्रहणमिति न्यायादाहारवसत्योरप्यपवादोऽवादीति मन्तव्यमिति सूत्रार्थः॥५॥ इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तं, इदानीं तु ज्ञानादिप्रतिबन्धकानां दुःखहेतूनां च मोहादीनां यथोत्पादो यथा दुःखहेतुत्वं यथा च क्षयस्तत्क्षये च यथा दुःखक्षयस्तथाभिधातुमाह
मूलम्-जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य ।
एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ॥६॥ व्याख्या-यथा च येनैव प्रकारेण अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं च यथा । एवमेवानेनैव प्रकारेण मोहोऽज्ञानं मिथ्यादर्शनं च स आयतनमुत्पत्तिस्थानं यस्याः सा मोहायतना तां खुरवधारणे 'तण्हत्ति' तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यं तृष्णाक्षयः स्यादिति । मोहं च तृष्णायतनं वदन्ति, तृष्णा नाम सत्यसति वा वस्तुनि मूर्छा, सा च रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र द्वेषोऽपि सम्भवतीति सोप्यनेनैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेषावुक्तौ, तदुत्कटत्वे चोपशान्तमोहस्यापि मिथ्यात्वगमनसम्भवात्सिद्ध एवाऽज्ञानादिरूपो मोहः, तृष्णातः । अनेन चान्योन्यं हेतुहेतुमद्भावाभिधानेन यथा मोहादीनामुत्पादस्तथोक्तम् ॥ ६ ॥ अथ यथैषां दुःखहेतुत्वं तथा वक्तुमाह
UTR-3