________________
उत्तराध्ययन ॥ २८५॥
द्वात्रिंशमध्ययनम्. गा ४-५
दूरण, खल्पस्यापि तत्सङ्गस्य महादोषत्वात् । स्वाध्यायस्य एकान्तेन व्यासङ्गत्यागेन निषेवणा अनुष्ठानं एकान्तनिषेवणा । चः समुच्चये, सूत्रार्थसञ्चिन्तना, धृतिश्च मनःखास्थ्यं, न हि धृतिं विना ज्ञानादिलाभ इति सूत्रार्थः ॥३॥ यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राकिं कर्त्तव्यमित्याह
मूलम्-आहारमिच्छे मिअमेसणिजं, सहायमिच्छे निउणबुद्धिं ।
निकेअमिच्छेज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥ व्याख्या-आहारमिछेन्मितमेषणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थेषु जीवादिषु बुद्धिर्यस्य स तथा तं । निकेतमाश्रयमिच्छेद्विवेकः स्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमणः तपखीति सूत्रार्थः॥४॥ताहशसहायालाभे यत्कार्य तदाह
मूलम्-ण वा लभिज्जा निउणं सहायं, गुणाहि वा गुणओ समं वा।
एकोऽवि पावाई विवजयंतो, विहरिज कामेसु असजमाणो ॥५॥ व्याख्या-न निषेधे, वा शब्दश्चेदर्थे, ततश्च न चेलभेत निपुणं सहायं गुणैर्ज्ञानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत्
UTR-3