________________
उत्तराध्ययन
॥ २८४ ॥
१२
१५
१८
२१
मूलम् - नाणस्स सङ्घस्स पगासणाए, अण्णाणमोहस्स विवजणाए । रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥ २ ॥
व्याख्या – ज्ञानस्य मतिज्ञानादेः सर्वस्य पाठान्तरे 'सच्चस्स' सत्यस्य वा प्रकाशनया निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः । तथा अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयोः समाहारस्तस्य विवर्जना मिध्याश्रुतश्रवणकुदृष्टिसङ्गत्यागादिना परिहाणिस्तया, अनेन सम्यग्दर्शनरूपो मोक्षहेतुरेवोक्तः । रागस्य द्वेषस्य च संक्षयेण विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव तदुपघातकत्वात् । ततश्चायमर्थः - सम्यग्ज्ञानदर्शनचारित्रैरेकान्तसौख्यं समुपैति मोक्षम् अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः ॥ २ ॥ नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ?
मूलम् — तस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा । सज्झाय एगंत निसेवणा य, सुत्तत्थसंचिंतणया धिई य ॥ ३ ॥
व्याख्या— तस्येत्यनन्तरोक्तस्य ज्ञानादेर्मोक्षोपायस्य एष मार्गः पन्था उपाय इत्यर्थः, क इत्याह-गुरवो यथास्थितशास्त्राभिधायकाः, वृद्धाश्च श्रुतपर्यायादिना स्थविरास्तेषां सेवा गुरुवृद्धसेवा । विवर्जना बालजनस्य पार्श्वस्थादेर्दूरात्
द्वात्रिंशमध्ययनम्.
(३२)
गा २-३
UTR-3