________________
उत्तराध्ययन ॥२८ ॥
एकत्रिंशमध्ययनम्
गा २०
मिति भणनम् ॥ २५ ॥ येनैवैश्वर्य नीतस्तस्यैव वित्तहरणम् ॥ २६ ॥ यत्प्रभावादभ्युदितस्तस्यैव भागाद्यन्तरायकरणम् ॥ २७ ॥ सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ॥ २८ ॥ अपश्यतोऽपि पश्यामि देवानिति कथनम् ॥ २९ ॥के कामगईभैर्देवैरित्यादिको देवानामवर्णवादः ॥ ३०॥ इति रूपेषु यो भिक्षुर्यतते त्यागादिना ॥ १९॥ मूलम्-सिद्धाइगुणजोएसु, तित्तीसासायणासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले २० ___व्याख्या-सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशत् , ते च संस्थान ५ वर्ण ५ गन्ध २ रस ५ स्पर्श ८ वेदाभावा २८ कायत्वा २९ ऽसङ्गत्वा ३० ऽजन्मत्व ३१ रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपञ्चविधज्ञानावरणपञ्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमोहनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसंग्रहा यैर्योगाः शुभमनोवाक्कायव्यापाराः संगृह्यन्ते, ते च द्वात्रिंशदमी-शिष्येण प्रशस्तयोगसंग्रहाय आचार्यायालोचना श्रावणीया ॥१॥ आचार्येणापि प्रशस्तयोगसंग्रहायैव दत्तायामालोचनायां निरपलापेनैव भाव्यं नान्यस्मै वाच्यम् ॥२॥ सर्वसाधुभिरापत्सु दृढधर्मता कार्या ॥३॥ ऐहिकामुभिकफलानपेक्षं तपः कार्यम् ॥ ४॥ ग्रहणासेवने शिक्षे आसेवितव्ये ॥ ५॥ निष्प्रतिकर्मशरीरत्वं कार्यम् ॥६॥ यथा नान्यो वेत्ति तथा तपः कार्यम् ॥४॥ अलोभता ॥८॥ परिषहादिजयः॥९॥ आर्जवम् ॥१०॥संयमविषये शुचित्वम् ॥ ११॥ सम्यक्त्वशुद्धिः ॥ १२॥ चित्तसमाधिः ॥१३॥ आचारपरिपालने मायाया अकरणम् ॥ १४ ॥ विनयोपगत्वेन मानाकरणम् ॥ १५॥ धृतिप्रधाना मतिधृ
UTR-3