SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २७९ ॥ १२ दीनां ॥ ७ ॥ व्यञ्जनं मषादि ॥ ८ ॥ 'वत्थुति' वास्तुविद्या 'आउंति' वैद्यकं । 'मोहट्ठाणेसुत्ति' मोहो मोहनीयं तस्य स्थानेषु त्रिंशत्संख्येषु, तथा हि-नद्यादिजलमध्ये प्रविश्य रौद्राध्यवसायेन त्रसप्राणिहननम् ॥ १ ॥ हस्तेन मुखादीनि पिधाय हृदये सदुःखनादं रटतश्छागादिजन्तोर्मारणम् ॥ २ ॥ शीर्षावेष्टेनार्द्रचर्मादिना शिरोवेष्टयित्वा जन्तोईननम् ॥ ३ ॥ मुद्गरादिना शीर्षे आहत्य दुःखमारेण प्राणिघातः ॥ ४ ॥ बहुजनस्य नेता त्राता यो भवति तयापादनम् || ५ || सर्वसाधारणस्यापि ग्लानादेः सत्यपि सामर्थ्य कृत्याकरणम् ॥ ६ ॥ निर्द्धर्मतया भिक्षाद्यर्थमुपस्थितस्य मुनेर्घातः ॥ ७ ॥ मुक्तिसाधकमार्गात्स्वस्यान्यस्य वा कुयुक्तिभिर्व्यामोहापादनेन परिभ्रंशः ॥ ८ ॥ जिनानामवर्णवादः ॥ ९ ॥ आचार्यादीनां जात्यादिना निन्दनम् ॥ १० ॥ तेषामेव वैयावृत्त्याद्यकरणम् ॥ ११ ॥ पुनः पुनरधिकरणमुत्पाद्य तीर्थभेदः ॥ १२ ॥ जानतोऽपि तद्दोषं वशीकरणादीनां प्रयोगः ॥ १३ ॥ वान्तकामस्याप्यैहिकामुष्मिकविषयाणां प्रार्थनम् ॥ १४ ॥ अबहुश्रुतस्यापि स्वस्य बहुश्रुतोऽहमिति भाषणम् ॥ १५ ॥ तथा अतपखिनोऽपि तपखी अहमिति भाषणम् ॥ १६ ॥ गृहादिमध्ये लोकं क्षिप्त्वा सधूमाग्निप्रदीपनम् ॥ १७ ॥ स्वयमकार्य कृत्वाऽन्येन कृतमिति कथनम् ॥ १८ ॥ अशुभमनोयोगयुक्तत्वेन प्रचुरमायाप्रयोगात्सकललोकवञ्चनम् ॥ १९ ॥ सत्यं वदन्तमन्यं मृषा वक्षीति कथनम् ॥ २० ॥ अक्षीणकलहत्वम् ॥ २१ ॥ मार्गे लोकान्प्रवेश्य तद्वित्तहरणम् ॥ २२ ॥ विश्वास्य जनं तत्कलत्राणामुपभोगः ॥ २३ ॥ अकुमारस्यापि कुमारोऽहमिति भाषणम् ॥ २४ ॥ एवमत्रह्मचारिणोऽपि ब्रह्मचार्यह एकत्रिंशमध्ययनम्. UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy