________________
उत्तराध्ययन
॥ २७२ ॥
१५
१८
२१
२४
सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐर्यापथिकी क्रिया ॥ १३ ॥ तथा भूतग्रामा जीवसङ्घाताचतुर्द्दश ते चामी - "एगिंदिय सुहुमि १ यरा २, सन्नि ३ अर-पणिदि ४ य सवि-ति चऊ ७ । अपज्जत्ता पज्जत्ता, भेएणं चउदस १४ ग्गामा ॥ १ ॥ " तेषु । तथा परमाश्च ते अधार्मिकाश्च परमाधार्मिकास्तेषु पञ्चदशसु असुर विशेषेषु, यदुक्तं - " अंबे १ अंबरिसी २ चेव, सामे ३ सबले ४ त्ति आवरे । रुद्दो ५ वरुद्द ६ काले अ ७, महाकालेत्ति ८ आवरे ॥ १ ॥ असिपत्ते ९ धणू १० कुंभे ११, वालू १२ वेअरणी १३ इय । खरस्सरे १४ महाघोसे १५, एए पण्णरसाहिया ॥ २ ॥ " तेषु यो भिक्षुर्यतते, यथायोगपरिहाररक्षणज्ञानैः ॥ १२ ॥
मूलम् — गाहासोलसएहिं, तहा अस्संजमम्मि य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १३ ॥
व्याख्या - गाथा गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्ययनानि तेषु, “समओ १ वेआलिअं २, उवसग्गपरिण्ण ३ थीपरिण्णा य ४ । निरयविभत्ती ५ वीरत्थओ ६ य कुसीलाण परिभासा ७ ॥ १ ॥ वीरिय ८ धम्म ९ समाही १०, मग्ग ११ समोसरण १२ अह तहं १३ गंथो १४ | जमतीतं १५ तह गाथा १६, सोलसमं होइ अज्झयणं ॥ २ ॥ " तथा असंयमे च सप्तदशभेदे पृथिव्या
एकत्रिंशमध्ययनम.
(३१) गा १३
UTR-3