SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२७३ ॥ ३ दिविषये, सप्तदश संख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्वात्, यदाहुः - " पुढवि १ दग २ अगणि ३ मारुय ४, वणस्सइ ५ बि ६ ति ७ चउ ८ पर्णिदि ९ अज्जीवे १० । पेहु ११ प्पेह १२ पमज्जण १३, परिद्ववण १४ मणो १५ ई १६ का १७ ॥ १ ॥ " पृथिव्यादीनां संघट्टादिपरिहारेण नवधा संयमः ९, अजीवसंयमस्तु अजीवानां सत्त्वोप मर्दहेतूनां पुस्तकपञ्चक-तृणपञ्चकादीनामुत्सर्गेणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येषां यतनया व्यापारणरूपः ॥ ॥ १० ॥ प्रेक्षासंयमश्चक्षुषा वीक्ष्य यत्कार्यकरणं ॥ ११ ॥ उपेक्षासंयमो द्विधा साधुग्रहिविषये नोदनाऽनोदनात्मकः ॥ १२ ॥ प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमार्ष्टि, तदभावे तु प्रमार्जयतीत्यादिकः ॥ १३ ॥ परिष्ठापनासंयम विधिना दोषदुष्टाहारविण्मूत्रादिपरिष्ठापनं कुर्वतः ॥ १४ ॥ मनः संयमोऽकुशलस्य मनसो निरोधः कुशलस्य तस्योदीरणम् ॥ १५ ॥ एवं वाक्संयमोऽपि ॥ १६ ॥ कायसंयमः सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभावे संलीनकरचरणेन भाव्यम् ॥ १७ ॥ यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ॥ १३ ॥ मूलम् वंभंमि नायज्झयणेसु, ठाणेसु असमाहिए । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १४ ॥ व्याख्या - ब्रह्मणि ब्रह्मचर्येऽष्टादशप्रकारे, उक्तञ्च - "दिव्यौदारिक कामानां कृतानुमतिकारितैः । मनोवाक्कायत एकत्रिंशमध्ययनम्. गा १४ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy