SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२६८॥ एकत्रिंशमध्ययनम्. * बिअ ९ तइअ १० सत्तराइदिणा । अहराइ ११ एगराई १२ भिक्खुपडिमाण बारसगं" अत्र प्रथमा एकमासिकी यावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्यः १०, अहोरात्रिकी ११, एकरात्रिकी १२, च ॥ १॥ “पडिवजइ एआओ, संघयणी धिइजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्मं गुरुणा अणुण्णाओ॥" संहननं वज्रऋषभनाराचादेरन्यतरत् , धृतिर्मनःस्वास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरु| णाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण गच्छेन वाऽनुज्ञायते ॥२॥ “गच्छेच्चिा निम्माओ, जा पुवा दस भव असंपुण्णा । नवमस्स तइअवत्थु, होइ जहन्नो सुआभिगमो” प्रतिपत्ता गच्छे एव तिष्ठन् निर्मातः आहारादिविषये प्रतिमायोग्यपरिकर्मणि निष्ठितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म । तथा न वर्षाखेताः प्रतिपद्यते, न च परिकर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे परिकर्मान्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत् , उत्कर्षतस्तु किञ्चिदूनानि दश पूर्वाणि । सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च पूर्वगतश्रुतं विना एताः प्रतिपद्यते, निरतिशयित्वात्कालादि न जानातीति ॥३॥ “वोस? चत्तदेहो, उवसग्गसहो जहव जिणकप्पी । एसणअभिग्गहीआ, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकाभावेन त्यक्तश्च ममत्वाभाव देहो येन स तथा, यथैव जिनकल्पी UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy