________________
उत्तराध्ययन ॥२५८॥
त्रिंशत्तममध्ययनम्.
गा २९-३१
विवित्तचरिआ ४, पणत्ता वीअरागेहिं ॥१॥" तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु शब्दादिषु रागद्वेषाकरणात् ॥१॥ कवायसंलीनता तदुदयनिरोधादेः ॥२॥ योगसंलीनता मनोवाक्कायानां शुभेषु प्रवृत्तेरशुभान्निवृत्तेश्च । ३। इति सूत्रार्थः ॥ २८ ॥ उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहमूलम्-एसो बाहिरगतवो, समासेण विआहिओ। अभिंतरं तवं एत्तो, वोच्छामि अणुपुत्वसो ॥२९॥
व्याख्या-स्पष्टम् ॥ २९ ॥ प्रतिज्ञातमेवाहमूलम्-पायछित्तं विणओ, वेआवच्चं तहेव सज्झाओ।झाणं च विउस्सग्गो, एसो अभितरो तवो ३०
व्याख्या-अक्षरार्थः सुगमो भावार्थ तु सूत्रकृदेवाहमूलम्-आलोअणारिहाईअं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायछित्तं तमाहिअं ॥३१॥ ___ व्याख्या-आलोचनाहं यत्पापमालोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह *च विषयविषयिणोरभेदोपचारादेषंविधपापविशुद्धधुपायभूतानि आलोचनादीन्येव आलोचनार्दादिशब्दैरुक्तानि । प्राय|श्चित्तं तुरेवकारार्थो भिन्नक्रमश्च, ततो दशविधमेव । दशविधत्वं चैवं-"आलोअण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा विउसग्गे ५ । तव ६ छेअ ७ मूल ८ अणवठ्ठयाय ९ पारंचिए १० चेव ॥१॥" तत्र आलोचना
UTR-3