SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२५९॥ त्रिंशत्तममध्ययनम्. गा ३२ गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनाहम् ॥ १॥ प्रायश्चित्तं त्विहालोचनैव, एवमग्रेपि । प्रतिक्रमणं दोषानिवृत्तिर्मिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावधवचनादिपापं शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणाहम् ॥ २॥ तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते तदालोचनाप्रतिक्रमणाईत्वान्मिश्रम् ॥३॥ तथा विवेकः पृथक्करणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकाहम् । जायते हि कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमात्रेणैव शुद्धिरिति ॥ ४ ॥ व्युत्सर्गः कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदर्हम् । ५। तथा यत्र प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोर्हम् ॥ ६॥ यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदाईम् ॥ ७ ॥ यत्र चापतिते सर्व पर्यायमुच्छेध मूलतो व्रतारोपः स्यात्तन्मूलाहम् ॥ ८॥ येन पुनः सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्तं तपो न कुर्यात्तावद् व्रतेषु न स्थाप्यते, आचीर्ण- | तपास्तु दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्यम् ॥९॥ यस्मिन् सेविते लिङ्ग-क्षेत्र-काल-तपसा पारमञ्चति | तत्पाराञ्चितं, यद्वा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चित्ताभावात् , अपराधानां वा पारमञ्चतीति पाराञ्चितम् ॥ १० ॥ इत्येतद्दशविधं यो भिक्षुर्वहत्यासेवते सम्यगवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥ ३१॥ विनयमाहमूलम्-अब्भुटाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा विणओ एस विआहिओ ३२ व्याख्या-अभ्युत्थानमजलिकरणं तथेति समुच्चये, एवः पूर्ती, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy