________________
उत्तराध्ययन ॥२५७॥
त्रिंशत्तममध्ययनम्, गा २७-२८
व्याख्या-क्षीरदधिसर्पिरादि, आदिशब्दागुडपक्वान्नादिग्रहणं, प्रणीतमतिबंहकं पानं च खर्जुररसादि भोजनं च गलस्नेहबिन्दुकमोदनादि पानभोजनं, सूत्रस्य सोपस्कारत्वादेषां परिवर्जनं रसानां तुः पृत्तौ भणितं रसविवर्जनमिति सूत्रार्थः ॥ २६ ॥ कायक्लेशमाहमूलम्-ठाणा वीरासणाईआ, जीवस्स उ सुहावहा। उग्गा जहा धरिजंति, कायकिलेसं तमाहिअं२७ ___ व्याख्या-स्थानानि देहावस्थानभेदाः, वीरासनं यत्र वामोऽनिर्दक्षिणोरू दक्षिणश्च वामोरूद्ध क्रियते तदादीनि, आदिशब्दाद्गोदोहिकादिग्रहणं, लोचायुपलक्षणं चैतत् , जीवस्य तुरवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिहेतुत्वात् शुभावहान्येव उग्राणि दुष्करतयोत्कटानि यथा येन प्रकारेण धार्यन्ते सेव्यन्ते कायक्लेशः स आख्यातः कथितस्तथैवेति शेष इति सूत्रार्थः ॥ २७ ॥ संलीनतामाहमूलम्-एगंतमणावाए, इत्थीपसुविवजिए । सयणासणसेवणया, विवित्तसयणासणं ॥ २८ ॥ ___ व्याख्या-'एगंतत्ति' सुब्व्यत्ययादेकान्ते जनानाकुले, अनापाते ख्याद्यापातरहिते, स्त्रीपशुविवर्जिते तत्रैवावस्थितस्यादिवियुक्त शून्यागारादावित्यर्थः, 'सयणासणसेवणयत्ति' शयनासनसेवनं विविक्तशयनासनं नाम बाह्य तप उच्यते, उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्याख्या संलीनतोक्ता, शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधेयमुक्ता, तथा हि-"इंदिअ १ कसाय २ जोगे ३, पडुच्च संलीणया मुअवा । तह जा
UTR-3