SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ त्रिंशत्तम उत्तराध्ययन ॥२५६॥ मध्ययनम्. (३०) गा २६ हिआ ६, उज्झिअधम्मा य ७ सत्तमिआ ॥१॥" संसृष्टाभ्यां हस्तपात्राभ्यां भिक्षां गृह्णतः प्रथमा ॥१॥असंसृष्टाभ्यां तु ताभ्यां गृह्यतो द्वितीया ॥२॥ पाकस्थानात् यत् स्थाल्यादौ स्वार्थ भोजनायोद्धृतं ततो गृह्णतः उद्ताख्या तृतीया ॥३॥ निलेपं पृथुकादिगृहुतोऽल्पलेपा चतुर्थी ४ । उद्गृहीता नाम भोजनकाले भोक्तुकामस्य परिवेषयितुं दर्वीशरावादिना यदुपहृतं भोजनजातं तत एवाददानस्य पञ्चमी ॥५॥ प्रगृहीता नाम भोजनकाले भोक्तुकामाय दातुमुद्यतेन भोक्रा वा यत्करादिना गृहीतं तत एव गृह्णतः षष्ठी ॥ ६ ॥ उज्झितधर्मा तु यत्परिहाराह भोजनजातं यदन्ये द्विपदादयो नावकांक्षन्ति तद त्यक्तं वा गृहतः सप्तमी ॥७॥ अभिग्रहाश्च द्रव्य १ क्षेत्र २ काल ३ भाव ४ विषयाः। तत्र द्रव्याभिग्रहाः कुन्ताग्रादिसंस्थितं मण्डकादि ग्रहीष्यामीत्यादयः ॥१॥ क्षेत्राभिग्रहा देहलीं जक्योर्मध्ये कृत्वा यदि दास्यति तदा ग्राह्यमित्याद्याः ॥ २॥ कालाभिग्रहाः सकलभिक्षुकोपरमकाले मया भ्रमितव्यमितिमुख्याः ॥३॥ भावाभिग्रहास्तु हसन्नाक्रन्दन् बद्धो वा यदि दाता दास्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः ॥ ४ ॥ इति सूत्रार्थः ॥ २५ ॥ रसत्यागमाहमूलम्-खीरदहिसप्पिमाई, पणीअं पाणभोअणं परिवजणं रसाणं तु, भणि रसविवजणं ॥२६॥ १ संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यामिति "ध" पुस्तके । UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy