SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२५५॥ त्रिंशत्तममध्ययनम्. गा२४-२५ मूलम्-दवे खित्ते काले, भावमि अ आहिआ उ जे भावा। एएहिं ओमचरओ, पज्जवचरओ भवे भिक्ख ॥ २४ ॥ व्याख्या-द्रव्येऽशनादौ, क्षेत्रे प्रामादौ, काले पौरुष्यादौ, भावे च स्त्रीत्वादी आख्याताः कथिताः तुः पृत्ती ये भावाः पर्याया एकसिक्थोनत्वादयः एतैः सर्वैरपि अवममुपलक्षणत्वादवमौदर्य चरतीत्यवमचरकः पर्यवचरको भवेद्भिक्षुः । इह पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, एवं क्षेत्रावमौदर्यादीन्यपि क्षेत्रादिप्राधान्यविवक्षया ज्ञेयानि, तत्त्वतो हि तेष्वपि द्रव्यावमौदर्यस्य सम्भवात् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनतामपेक्ष्यावमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ॥ २४ ॥ भिक्षाचर्यामाहमूलम्-अट्ठविहगोअरग्गं तु, तहा सत्तेव एसणा। अभिग्गहा य जे अन्ने, भिक्खायरिअमाहिआ॥२५॥ __व्याख्या-'अट्टविहगोअरग्गंति' प्राकृतत्वादष्टविधः अग्रः प्रधानोऽकल्पपरिहारेण स चासौ गोचरश्च उचावचकुलेष्वविशेषेण भ्रमणमष्टविधाअगोचरः, तुः पृत्तौ । तथा सप्तैव एषणा अभिग्रहाश्च येऽन्ये तदतिरिक्तास्ते किमित्याह-'भिक्खायरिअमाहिअत्ति' भिक्षाचर्या वृत्तिसंक्षेपापरनामिका आख्याता कथिता । अत्राष्टौ अग्रगोचरभेदाः पेटादय एव, तेषु शम्बूकाव या द्वैविध्यस्य पार्थक्याश्रयणात् , आयतायाश्च गमनेऽपि वलमानत्वे इव पृथग्ग्रहणात् तेषामष्टविधत्वं ज्ञेयं । सप्तैषणाश्चेमाः-"संसट्ठमसंसट्टा २, उद्धड ३ तह अप्पलेविआ चेव ४ । उग्गहिआ ५ पग्ग UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy