SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२५४॥ त्रिंशत्तममध्ययनम्. (३०) गा २१-२३ मूलम्-अहवा तइआए पोरिसीए ऊणाए घासमेसंतो। चउभागूणाए वा, एवं कालेण ऊ भवे ॥२१॥ व्याख्या-अथवा तृतीयपौरुष्यामूनायां ग्रासमाहारं 'एसन्तोत्ति' एषयतः, कियता भागेन न्यूनायामित्याह-चतुर्भागोनायां, 'वा' शब्दात् पञ्चादिभागोनायां वा, एवममुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेदवमौदर्यम् । औत्सर्गिकविधिविषयं चैतत् , उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥२१॥ भावावमौदर्यमाह मूलम्-इत्थी वा पुरिसो वा, अलंकिओ वाणलंकिओ वावि । अन्नयरवयत्थो वा, अन्नयरेणं वा वत्थेणं ॥ २२ ॥ मूलम्-अन्नेण विसेसेणं, वण्णेणं भावमणुमुअंते उ । एवं चरमाणो खल्लु, भावोमाणं मुणेअवं २३॥ | __ व्याख्या-स्त्री वा पुरुषो वा, अलङ्कृतो वा अनलकृतो वा, अपिः पृत्तौं, अन्यतरस्मिन् वयसि तारुण्यादौ तिष्ठतीत्यन्यतरवयःस्थो वा, अन्यतरेण पट्टसूत्रमयादिना वस्त्रेणोपलक्षितः ॥ २२ ॥ "अन्नेणेत्यादि'-अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन कृष्णादिनोपलक्षितो भावमुक्तरूपमेवालङ्कतत्वादिकं 'अणुमुअंते उत्ति' अमुञ्चन्नेव यदि दाता दास्यति तदाहं ग्रहीष्ये नान्यथेत्युपस्कारः एवं 'चरमाणोत्ति' चरतः खलु 'भावोमाणंति' भावावमौदर्य मुणितव्यम् ॥ २३ ॥ पर्यवावमौदर्यमाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy