________________
उत्तराध्ययन ॥२५३॥
त्रिंशत्तममध्ययनम्.
गा २०
शम्बूकः शङ्खस्तद्वदावर्तो यस्यां सा शम्बूकाव , सा द्विविधा, अभ्यन्तरशम्बूकावत बहिश्शम्बूकावर्त्ता च, तत्राद्या शङ्खनाभिसदृशाकारे क्षेत्रे मध्यादारभ्य बाह्यगृहं यावदटने, अन्या तु तद्विपर्यये ॥५॥ आययगंतुंपचागयत्ति' आयतं दीर्घ प्राञ्जलमित्यर्थः, गत्वा प्रत्यागता पष्ठी, इयं ऋजुतयाऽग्रतो गत्वा वलमानस्याटने ॥६॥ नन्वत्र गोचररूपत्वात् भिक्षाचर्यात्वमेवासा तत्कथमिह क्षेत्रावमौदर्यरूपत्वमुच्यते ? उच्यते-अवमौदर्य ममास्त्वित्याशयेन क्रियमाणत्वादवमौदर्यव्यपदेशोऽप्यत्रादुष्ट एव, दृश्यन्ते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्रादयोऽनेके व्यपदेशाः। एवं पूर्वत्र ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं पाच्यम् ॥ १९ ॥ कालावमौदर्यमाह
मूलम्-दिवसस्स पोरिसीणं, चउण्हंपि उ जत्तिओ भवे कालो।
एवं चरमाणो खल, कालोमाणं मुणेअवं ॥ २० ॥ व्याख्या-दिवसस्य पौरुषीणां चतसृणामपि तुः पूत्तौ यावान् भवेत्कालोऽभिग्रहविषय इति शेषः, एवमिति एवंप्रकारेण प्रक्रमात्कालेन 'चरमाणोत्ति' सुब्व्यत्ययाचरतो भिक्षार्थ भ्रमतः चतसृणां पौरुषीणां मध्येऽमुकस्मिन् काले भिक्षाचर्या करिष्यामीत्येवमभिगृह्य पर्यटतः खलु निश्चितं 'कालोमाणंति' कालेन हेतुनाऽवमत्वं प्रस्तावादरस्य कालावमत्वं, कोऽर्थः ? कालावमौदर्य मुणितव्यं ज्ञातव्यम् ॥ २०॥ एतदेव प्रकारान्तरेणाह- .
P.
UTR-3