________________
उत्तराध्ययन ॥२५२॥
त्रिंशत्तममध्ययनम्.
गा १८-१९
*चः समुच्चये स्थली प्रोचभूभागः सेना चतुरङ्गबलसमूहः स्कन्धावारः स एव वणिजादिसर्वजनयुक्तः एषां समाहार
स्तस्मिन, सार्थे गणिमधरिमादिभृतशकटादिसवाते, संवर्ती भयत्रस्तजनस्थानं कोट्टः प्राकारोऽनयोः समाहारस्तस्मिन् , चः समुच्चये ॥ १७ ॥
मूलम्-वाडेसु वा रत्थासु व, घरेसु वा एवमेत्तिअं खेत्तं ।
कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ॥ १८ ॥ व्याख्या-वाटेषु पाटेषु वा वृत्तिवरण्डकादिवेष्टितगृहसमूहात्मकेषु, रथ्यासु सेरिकासु, गृहेषु, वा सर्वत्र विकल्पार्थः, एवमनेन प्रकारेण 'एत्तिअंति' एतावद्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते मम भिक्षायै पर्यदितुमिति शेषः, तुः पृत्तौं, एवमादि आदिशब्दाद्गृहशालादिपरिग्रहः, एवममुना प्रकारेण क्षेत्रेणेति क्षेत्रहतुकं तुः पृत्तौं भवेदवमौदर्यमिति प्रक्रमः ॥ १८ ॥ पुनरन्यथा क्षेत्रावमौदर्यमाहमूलम्-पेडा य अद्धपेडा, गोमुत्ति पयंगवीहिआ चेव । संबुक्कावट्टायय-गंतुंपञ्चागया छट्ठा ॥ १९ ॥
व्याख्या-तत्र पेटा मञ्जूषा तद्वत्संलग्रसर्वदिकस्थगृहाटने पेटा ॥१॥ अर्द्धपेटा तदर्द्धभ्रमणे ॥२॥गोमूत्रिका तदाकारेण वामदक्षिणतो भ्रमणे ॥३॥ पतङ्गवीथिका तिवदन्तरा बहुगृहाणि मुक्त्वा मुक्त्वा भ्रमणे ॥४॥
UTR-3