________________
उत्तराध्ययन ॥२५॥
त्रिंशत्तममध्ययनम्. (३०) गा १५
व्याख्या-अवमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्य न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पञ्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्चोपाधिभूतैः ॥ १४ ॥ तत्र द्रव्यत आह
मूलम्-जो जस्स उ आहारो, तत्तो ओमं तु जो करे।
जहणणेणेगसित्थाइ, एवं दवेण ऊ भवे ॥१५॥ व्याख्या-यो यस्य तुः पृत्तॊ आहारो द्वात्रिंशत्कवलादिमानः, ततः खाहारादवमानं तुः पृत्तौ यः कुर्यात् भुजानः इति शेषः, अयं भावः-पुरुषस्य हि द्वात्रिंशत्कवलमान आहारः, स्त्रियाश्चाष्टाविंशतिकवलमानः । कवलश्चेह यस्मिन् क्षिप्ते मुखस्य नातिविकृतत्वं स्यात्तावन्मानो ज्ञेयः । ततश्चैतन्मानादूनं यो भुङ्क्ते यत्तदोर्नित्याभिसम्बन्धात् तस्य एवममुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सण्टङ्कः, अवमौदर्यमिति प्रक्रमः, एतच्च जघन्येनैकसिक्थं यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दासिक्थद्वयादारभ्य यावदेककवलभोजनम् । इत्थं चाल्पाहाराहमवमौदर्यमाश्रित्योच्यते, यत उपार्दादिषु तद्भेदेषु कवलनवकादिमानमेव जघन्यं स्यात्तथा च सम्प्रदायः-"अप्पाहारोमोअरिआ जहण्णेणेगकवला, उक्कोसेणं अट्ठ कवला, सेसा अजहन्नमणुकोसा। उवहाहारोमोअरिआ जहन्नेणं नव कवला, उक्कोसेणं वारस कवला, सेसा अजहन्नमणुक्कोसा" इत्यादि-एतद्भेदाश्चामी "अप्पाहार १ उवड्डा २, दुभाग
UTR-3