________________
उत्तराध्ययन ॥२४९॥
त्रिंशत्तममध्ययनम् गा १४
द्वर्तनादिपरिकर्मणः सद्भावात् , अपरिकर्म तु पादपोपगमनं, तत्र सर्वथा परिकर्माभावात् । उक्तञ्च-"समविसमंमि य पडिओ, अच्छइ सो पायवोच निकंपो ॥ चलणं परप्पओगा, नवरि दुम्मस्सेव तस्स भवे ॥१॥" यद्वा परिकर्म संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं त्वपरिकर्म, तत्र च व्याघाताभावे भक्तपरिज्ञादित्रयमप्येतत्सूत्रार्थोभयनिष्ठो निष्पादितशिष्यः संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसम्भवात् , यदुक्तं-"देहम्मि असंलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरिमकालम्मि ॥१॥” इति सपरिकर्मोच्यते । यत्पुनर्व्याघाते विद्युद्गिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मेति । तथा निर्हरणं निहारो गिरिकन्दरादौ गमनेन प्रामादेर्बहिर्गमनं तद्विद्यते यत्र तन्निर्हारि, यत् पुनरुत्थातुकामे ब्रजिकादौ क्रियते तदनिर्वारि, तत्र क्वापि गमनाभावात् । एतच भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं-“पाओवगमणं दुविहं, नीहारिं चेव तह अनीहारिं । बहिआ गामाईणं, गिरिकंदरमाइ नीहारिं ॥१॥ वइआसु जं अंतो, उट्ठाउमणाण ठाइ अणिहारिं । तम्हा पाओवगमणं, जं उवमा पायवेणेत्थ ॥२॥" आहारच्छेदोऽशनादित्यागो द्वयोरपि सविचाराविचारयोः सपरिकर्मापरिकर्मणोर्निर्हार्यनिर्दीरिणोश्च सम इति शेष इति सूत्रपञ्चकार्थः ॥ १३ ॥ उक्तमनशनं ऊनोदरतामाहमूलम्-ओमोअरणं पंचहा, समासेण विआहिअं। दवओ खित्तकालेणं, भावेणं पजवेहि अ ॥१४॥
UTR-3