________________
उत्तराध्ययन ॥२४८॥
त्रिंशत्तममध्ययनम्.
गा १३
। सलेखनां विधाय त्रिवानमिङ्गिनीमरणं च, चार, कायचेष्टामुदतना
व्याख्या-जा सा अणसणत्ति' यत्तदनशनं मरणे मरणावसरे द्विविधं तद्याख्यातं कथितं, तद्वैविध्यमेवाह-सह विचारेण चेष्टालक्षणेन वर्त्तते यत्तत्सविचार, तद्विपरीतं त्वविचारं, कायचेष्टामुद्वर्त्तनादिकां प्रतीति प्रतीत्याश्रित्य | भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तत्र भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो विधिना संलेखनां विधाय त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, स च समास्तृतमृदुसंस्तारकस्त्यक्तभक्तकरणोपकरणादिममत्वः खयमुचरितनमस्कारः पार्श्ववर्तिमुनिदत्तनमस्कारो वा सत्यां शक्ती स्वयमुद्वर्तनादि कुरुते, शक्तरभावेऽपरैरपि किञ्चित्कारयतीति ॥ १॥ इङ्गिनीमरणे त्वालोचनासंलेखनादिपूर्व शुद्धस्थण्डिलस्थित एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानो नियमितस्थण्डिलस्यैवान्तश्छायात उष्णमुष्णाच च्छायां स्वयमेव संक्रामति न त्वन्येन किञ्चित्कारयतीति ॥२॥ अविचारं तु पादपोपगमनं, तत्र हि देवगुरुवन्दनादिविधिना चतुर्विधाहारप्रत्याख्यानं कृत्वा गिरिकन्दरादौ गत्वा पादप इव यावजीवं निश्चेष्ट एवावतिष्ठते ॥ ३॥ १२ ॥ पुनद्वैविध्यमेव प्रकारान्तरेणाहमूलम्-अहवा सपरिक्कम्मा, अपरिक्कम्मा य आहिआ। नीहारिमनीहारि, आहारच्छेओ दोसुवि १३ ___ व्याख्या-अथवेति प्रकारान्तरसूचने, सपरिकर्म स्थानोपवेशनत्वग्वर्तनोद्वर्तनादिलक्षणपरिकर्मयुक्तं, अपरिकर्म च तद्विपरीतमाख्यातं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, आद्ये खपरकृतस्य द्वितीये तु खयंकृतस्यो
UTR-3