________________
उत्तराध्ययन
॥ २४७ ॥
१२
मूलम् — तत्तो अवग्गवग्गो उ, पंचमओ छट्टओ पइण्णतवो । मणइच्छिअचित्तत्थो, नायवो होइ इत्तरिओ ॥ ११ ॥
व्याख्या - ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः पञ्चमस्तत्र वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवर्गों भवति, यथा चत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जाता एका कोटिः सप्तषष्टिर्लक्षाः सप्तसप्ततिः सहस्राणि द्वे शते षोडशाधिके [ १६७७७२१६] एतावद्भिस्तपः पदैरुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपो दर्शितं एतदनुसारेण पञ्चादिपदेष्वपि एतद्भावना कार्या । षष्ठकं प्रकीर्णतपो यत् श्रेण्यादिनियतरचनाविरहितं स्वशक्त्या यथाकथञ्चिद्विधीयते तच्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवजमध्यचन्द्रप्रतिमादि च । इत्थं भेदानुक्त्वा उपसंहारमाह-मणेत्यादि -मनसः सचित्रनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्व - रकं' प्रक्रमादनशनाख्यं तपः ॥ ११ ॥ सम्प्रति मरणकालमनशनमाह -
मूलम् — जा सा अणसणा मरणे, दुविहा सा विआहिया । सवियारमविया, कायचिद्वं पई भवे ॥ १२ ॥
त्रिंशत्तममध्ययनम्. गा ११-१२
UTR-3