SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रिंशत्तममध्ययनम्. ॥२४६॥ पनिस्तदपलक्षितं तपः श्रेणितपः, तच चतुर्थादिक्रमेण क्रियमाणं षण्मासान्तं गृह्यते । तथा श्रेणिरेव श्रेण्या गणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः, । इह च अव्यामोहाथै चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्कात्मिका श्रेणिर्विवक्ष्यते, सा चतुर्मिगुणिता षोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते । एकाद्याद्या व्यवस्थाप्याः, पक्तयो हि यथाक्रमम् । द्वितीयाद्याः क्रमाचैताः, पूरयेदेककादिभिः ॥१॥" एकाद्याद्येति प्रथमा एकाद्या, द्वितीया द्विकाद्या, तृतीया त्रिकाद्या, चतुर्थी चतुष्काद्या, एवं सर्वत्रापि श्रेणयो व्यवस्थाप्याः, ततश्च द्वितीयाद्याः श्रेणयः क्रमादेककद्विकादिभिः पूरयेत् । स्थापना चेयम् २ ३ ४ इयद्भिरेवंविधैस्तपःपदैरुपलक्षितं तपः प्रतरतपः स्यात् । घन इति घनतपः, चः पूरणे, तथेति HRA समुच्चये, भवतीति क्रिया प्रतिपदं योज्या। अत्र षोडशपदात्मकः प्रतरः पदचतुष्कात्मिकया श्रेण्या गुणितो घनो भवति, आगतं चतुःषष्टिः [६४ ] स्थापना पूर्वोक्तैव, नवरं बाहल्यतोऽपि पदचतुष्कात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतपः उच्यते । चः समुच्चये, तथा भवति वर्गश्चेतीहापि प्रक्रमाद्वर्गतपस्तत्र च घन एव घनेन गुणितो वर्गो भवति, ततश्चतुःषष्टेश्चतुःषष्टयैव गुणिता जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि [४०९६] एतावद्भिश्चतुर्थादिदशमान्ततपःपदैरुपलक्षितं वर्गतपो भवति ॥ १० ॥ १ इयद्भिरित्यतः स्वादितिपर्यन्तं नास्ति "ध" पुस्तके ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy