________________
उत्तराध्ययन
॥ २४५ ॥
३
१२
बाह्यद्रव्यापेक्षत्वालोकप्रतीतत्वात्कुतीर्थिकैरपि स्वाभिप्रायेण सेव्यमानत्वात् बहिः शरीरस्य वा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाबाङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्रार्थः ॥ ७ ॥ तत्र यथा बाह्यं षड्विधं तथाहमूलम् - अणसणमूणोअरिआ, भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ८ ॥
व्याख्या - अक्षरार्थः स्पष्टो भावार्थं तु सूत्रकृदेव वक्ष्यति ॥ ८ ॥ तत्रानशनस्खरूपं तावदाहमूलम् — इत्तरिअ मरणकाला य, दुविहा अणसणा भवे । इत्तरिआ सावकंखा, निरव कंखा उ बिइजिआ ९
व्याख्या– इत्वरमेव इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः, चः समुच्चये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकांक्षया घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते इति सावकांक्षं, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्च ततो द्वितीयं पुनर्मरणकालाख्यम् ॥ ९ ॥ तत्रेत्वरानशनभेदानाह
मूलम् — जो सो इत्तरिअतवो, सो समासेण छबिहो ।
सेढितवो १ पयरतवो २, घणो अ ३ तह होइ वग्गो अ ४ ॥ व्याख्या - यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन षद्विधं
१० ॥ षद्विघत्वमेवाह - 'सेढितवो' इत्यादि - श्रेणिः
त्रिंशत्तममध्ययनम्.
गा८-१०
UTR-3