SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२४४॥ त्रिंशत्तममध्ययनम्. गा४-७ मूलम्-एएसिं तु विवच्चासे, रागद्दोससमजिअं ।खवेइ उ जहा भिक्खू , तं मे एगमणो सुण ॥४॥ व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां विपर्यासे सति यद्रागद्वेषाभ्यां समर्जितं कर्मेति शेषः, क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ॥४॥ मूलम्-जहा महातलागस्स, सन्निरुद्धे जलागमे। उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ व्याख्या-यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निरुद्धे जलागमे 'उस्सिंचणाएत्ति' उत्सिञ्चनेनारघट्टपट्यादिभिरुदञ्चनेन तपनेनार्ककरतापेन क्रमेण शोषणा जलाभावरूपा भवेत् ॥ ५॥ मूलम्-एवं तु संजयस्सावि, पावकम्मनिरास।भवकोडिसंचिअं कम्म, तवसा निजरिजइ ॥६॥ व्याख्या एवं तुत्ति' एवमेव संयतस्यापि पापकर्मणां निराश्रवे आश्रवाभावे पापकर्मनिराश्रये सति भवकोटिसञ्चितं कर्म, अतिबहुत्वोपलक्षणमेतत् , तपसा निर्जीयते इति सूत्रत्रयार्थः ॥६॥ तपसा कर्म निर्जीयते इत्युक्तमतस्तद्भेदानाहमूलम् –सो तवो दुविहो वुत्तो, बाहिरभितरो तहा। बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥ ७॥ व्याख्या-'सो तवोत्ति' तत्तपो द्विविधं प्रोक्तं, लिङ्गव्यत्ययः सर्वत्र सूत्रत्वात् , बाह्यमाभ्यन्तरं तथा । तत्र बाचं UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy