________________
॥ अथ त्रिंशत्तममध्ययनम् ॥
उत्तराध्ययन ॥२४३॥
त्रिंशत्तममध्ययनम्. गा १-३
॥ॐ॥ उक्तमेकोनत्रिंशमथ त्रिंशत्तमं तपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गतिः सिद्धिगतिरूपा वाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्चायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्खरूपमत्रोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-जहा उ पावगं कम्म, रागद्दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥
व्याख्या-यथा येन प्रकारेण तुः पूतौ पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्येति सूत्रार्थः ॥ १॥ इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाहमूलम्-पाणिवहमुसावाए, अदत्तमहणपरिग्गहा विरओ । राईभोअणविरओ, जीवो होइ अणा
सवो ॥२॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। अगारवो अ निस्सल्लो, जीवो
होइ अणासवो ॥३॥ व्याख्या-स्पष्टे ॥ २॥३॥ ईशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह
UTR-3