________________
उत्तराध्ययन ॥२३९॥
एकोनत्रिंश मध्ययनम्.
वरणीयं, पञ्चविधमन्तरायं 'एएत्ति' एतानि त्रीण्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति, तत इति क्षपणातः पश्चात् न विद्यते उत्तरं प्रधानं ज्ञानमस्मादित्यनुत्तरं, अनन्तं अविनाशित्वात् , कृत्स्नं कृत्स्नार्थग्राहकत्वात् , प्रतिपूर्ण सकलखपरपर्यायप्रतिपूर्ण वस्तु प्रकाशकत्वात् , निरावरणमशेषावरणविगमात्, वितिमिरं तस्मिन् सति क्वचिदप्यज्ञानतिमिराभावात् , विशुद्धं सर्वदोषाभावात् , लोकालोकप्रभावकं तत्स्वरूपप्रकाशकत्वात् , केवलवरज्ञानदर्शनं समुत्पादयति । स च यावत्सयोगी मनोवाकायव्यापारवान् भवति तावत् 'इरिआवहिअंति' ईर्या गतिस्तस्याः पन्थाः ईर्यापथस्तस्मिन् भवमैर्यापथिकं, उपलक्षणं च पथिग्रहणं, तिष्ठतोऽपि सयोगस्थासम्भवात् , कर्म बधाति। तत्कीदशमित्याह-सुखयतीति सुखः स्पर्श आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्विसमयस्थितिक, तदधिकस्थितेः कषायप्रत्ययत्वात् । यदुक्तं-"जोगा पयडिपएसं, ठिइ अणुभागं कसायओ कुणइत्ति" । तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीर्ण परिशटितं ततश्च तद्वद्धं जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् , तथा स्पृष्टं मसूणमणिकुड्यापतितशुष्कस्थूलचूर्णवत् । अनेन विशेषणद्वयन तस्य निधत्तनिकाचितावस्थयोरभावमाह । उदीरितमुदयप्राप्तं उदीरणायास्तत्रासम्भवात् , वेदितं तत्फलसुखानुभवनेन निर्जीण क्षयमुपगतं, 'सेअकालेत्ति' सूत्रत्वादेष्यत्काले चतुर्थसमयादावकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामासम्भवात्, एतच एवंविधविशेषणा
UTR-3