SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२३८॥ एकोनत्रिंश मध्ययनम्. (२९) व्याख्या-प्रेम च रागरूपं द्वेषश्चाप्रीतिरूपो मिथ्यादर्शनं च मिथ्यात्वं प्रेमद्वेषमिध्यादर्शनानि, तद्विजयेन ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते उद्यच्छते, प्रेमादिनिमित्तत्वात्तद्विराधनायास्ततश्चाष्टविधस्य कर्मणो मध्ये इति शेषः यः कर्मग्रन्थिरतिदुर्भेदत्वात् घातिकर्मरूपस्तस्य विमोचना क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यत्वात्तदर्थ चाभ्युत्तिष्ठते । अभ्युत्थाय च किं करोतीत्याह-तत्प्रथमतया तत्पूर्वतया न हि पुरा तत्क्षपितमासीदिति, यथानुपूर्वि आनुपूर्त्या अनतिक्रमेण अष्टाविंशतिविधं मोहनीयं कर्म उद्घातयति क्षपयति, तत्क्षपणाक्रमश्चायम्-पूर्वमनन्तानुबन्धिनः क्रोधादीन् युगपत् क्षपयति, तदनु क्रमान्मिध्यात्वं मिश्रं सम्यक्त्वदलिकं च, तदनु प्रत्याख्यानाप्रत्याख्यानकषायाष्टकं क्षपयितुमारभते, तस्मिंश्चार्द्धक्षपिते नरकगत्यानुपूर्वी २ तिर्यग्गत्यानुपूर्वी ४ एकेन्द्रियादिजातिनामचतुष्का ८ ऽऽतपो ९ द्योत १० स्थावर ११ सूक्ष्म १२ साधारण १३ निद्रानिद्रा १४ प्रचलाप्रचला १५ | स्त्यानर्द्धि १६ लक्षणाः षोडश प्रकृतीः क्षपयति, ततः कषायाष्टकावशिष्टं क्षपयित्वा क्रमात् नपुंसकवेदं स्त्रीवेदं हास्यादिषट्वं पुरुषवेदं च क्षपयति, यदि पुरुषः प्रतिपत्ता, अथ स्त्री षण्ढो वा तदा खस्खवेदं प्रान्ते क्षपयति । तदनु क्रमात् संज्वलनक्रोधमानमायालोभान् , क्षपणाकालश्च प्रत्येकं सर्वेषां वा अन्तर्मुहूर्तमेव । इत्थं चैतदन्तर्मुहूर्तस्यासंख्यभेदत्वात् । इत्थं मोहनीयं क्षपयित्वान्तर्मुहूर्त्त यथाख्यातचारित्रं प्राप्तः क्षीणमोहद्विचरमसमययोः प्रथमसमये निद्राप्रचले क्षपयित्वा चरमसमये यत्क्षपयति तत्सूत्रकृदेवाह-पंचेत्यादि-पञ्चविधं ज्ञानावरणीयं, नवविधं दर्शना UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy