________________
उत्तराध्ययन ॥२३०॥
एकोनत्रिंशमध्ययनम्. (२९) प्र५२-५४
मूलम्-जोगसच्चेणं भंते ! जीवे किं जणयइ ? जोगसच्चेणं जोगे विसोहेइ ॥ ५२ ॥ ५४॥ व्याख्या--योगसत्येन मनोवाकायसत्येन योगान् विशोधयति, क्लिष्टकर्मबन्धाभावान्निर्दोषान् करोति ॥५२॥ ॥५४॥ योगसत्यं च गुप्तिमतः स्यादिति ता आहमूलम्-मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गं जणयइ, एगग्ग
चित्ते णं जीवे मणगुत्ते संजमाराहए भवइ॥ ५३॥ ५५॥ __ व्याख्या-मनोगुप्ततया मनोगुप्तिरूपया ऐकायं प्रस्तावाद्धमैकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो मनो गुप्तमशुभाध्यवसायेषु गच्छद्रक्षितं येनासौ मनोगुप्तः, तान्तस्य परनिपातः सूत्रत्वात् , संयमाराधको भवति ॥ ५३॥ ५५॥ मूलम्-वइगुत्तयाए णं भंते ! जीवे किं जणयइ ? वइगुत्तयाए णं निविआरत्तं जणयइ, निविकारे __णं जीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते आवि भवइ ॥ ५४॥ ५६ ॥ व्याख्या-वाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारत्वं विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान् अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानाद
UTR-3