________________
उत्तराध्ययन ॥२२९॥
एकोनत्रिंश मध्ययनम. प्र५०-५१
| मूलम्-भावसच्चेणं भंते ! जीवे किं जणयइ ? भावसच्चेणं भावविसोहिं जणयइ, भावविसोहिए
अ वट्टमाणे जीवे अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुट्टेइ, अरहंतपण्णत्तस्स
धम्मस्स आराहणयाए अब्भुहित्ता परलोअधम्मस्स आराहए भव ॥ ५० ॥ ५२॥ व्याख्या-भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, भावविशुद्धिं . अध्यवसायविशुद्धतां जनयति । भावविशुद्धौ च वर्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनाये आवर्जनाय अभ्युत्तिष्ठते उत्सहते, तस्यै चाभ्युत्थाय परलोके भवान्तरे धर्मः परलोकधर्मस्तस्याराधको भवति, प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः ॥५०॥५२॥ भावसत्ये च सति करणसत्यं स्यादिति तदाहमूलम्-करणसच्चेणं भंते ! जीवे किं जणयइ ? करणसच्चेणं करणसत्तिं जणयइ, करणसच्चे अ वट्ट
माणे जीवे जहावाई तहाकारी आवि भवइ ॥ ५१ ॥ ५३ ॥ व्याख्या-करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्तिं अपूर्वापूर्वशुभक्रियां करणसामर्थ्यरूपां जनयति, करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यथा क्रियाकलापवदनशीलः स्यात्तथैव करणशीलोपीति ॥ ५१॥५३॥ तस्य च मुनेर्योगसत्यमपि स्यादिति तदाह
UTR-3