________________
उत्तराध्ययन ॥२११॥
एकोनत्रिंश मध्ययनम्. प्र१६-१७
मूलम्-पायच्छित्तकरणेणं भंते ! जीवे किं जणयइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ, निर
इआरे आविभवइ, सम्मंचणं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं
आयारफलं च आराहेइ ॥ १६ ॥ १८॥ व्याख्या-प्रायश्चित्तकरणेनालोचनादिविधानरूपेण पापकर्मविशुद्धिं निष्पापतां जनयति, निरतिचारश्चापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात्, मार्ग इह ज्ञानावाप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति, अनयोर्हि युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञान प्रति हेतुत्वं प्रदीपस्यैव प्रकाशं प्रति विद्यत एव। तथा आचर्यते सेव्यते इत्याचारश्चारित्रं तत्फलं च मुक्तिरूपमाराधयति ॥१६॥१८॥ प्रायश्चित्तकरणं च क्षमणातः स्यादिति तामाहमूलम्-खमावणयाएणं भंते ! जीवे किं जणयइ ? खमावणयाएणं पल्हायणभावं जणयइ, पल्हा
यणभावमुवगए अ जीवे सबपाण-भूअ-जीव-सत्तेस मित्तीभावं उप्पाएड, मित्तीभावमु
वगए आवि जीवे भावविसोहि काऊण निठभए भवह ॥ १७॥ १९॥ व्याख्या-क्षमणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया प्रहादनभावं चित्तप्रसादं जनयति, प्रह्लादनभावमुपगतश्च जीवः सर्वे प्राणा द्वित्रिचतुरिन्द्रिया भूताश्च तरवो जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च शेषजीवास्तेषु मैत्री
UTR-3