________________
उत्तराध्ययन ॥२१॥
एकोनत्रिंश मध्ययनम्.
(२९)
प्र१५
व्याख्या-स्तवा देवेन्द्रस्तवाद्याः, स्तुतय एकादिसप्तश्लोकान्ताः, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुति|| शब्दस्य इदन्तत्वात्पूर्वनिपातः, सूत्रे तु व्यत्ययः प्राकृतत्वात् , ते एव मङ्गलं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्ररूपो
यो बोधिः स ज्ञानदर्शनचारित्रबोधिस्तल्लाभं जनयति, ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीवोऽन्तो भवस्य कर्मणां वा पर्यन्तस्तस्य क्रिया निर्वर्तनमन्तक्रिया मुक्तिः ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां आराधनामितियोगः, तथा कल्पा देवलोका विमानानि प्रैवेयकानुत्तरविमानरूपाणि तेषूपपत्तिरुत्पादो यस्याः सा तथा तां, अयं भावोऽनन्तरजन्मनि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकामाराधनां ज्ञानाचाराधनारूपामाराधयति साधयति ॥ ॥ १४ ॥ १६ ॥ अर्हन्नमनादनु खाध्यायः कार्यः, स च काले एव, तज्ज्ञानं च कालप्रत्युपेक्षणया स्वादिति तामाहमूलम्-कालपडिलेहणयाएणं भंते ! जीवे किं जणयइ ? कालपडिलेहणयाएणं नाणावरणि कम्म
खवेइ ॥१५॥१७॥ व्याख्या-कालः प्रादोपिकादिस्तस्य प्रत्युपेक्षणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ॥ १५ ॥ १७ ॥ कदाचिदकालपाठे प्रायश्चित्तं कार्यमिति तदाह
१ ज्ञानदर्शनचारित्ररूपामाराधयति साधयतीति "घ" पुस्तकपाठः ॥
UTR-3