________________
उत्तराध्ययन ॥२०९॥
एकोनत्रिंश मध्ययनम्, प्र१३-१४
व्याख्या-कायोत्सर्गेणातीतं चेह चिरकालभावि, प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासनकालभावि, अतीतप्रत्युत्पन्नं प्रायश्चित्तं प्रायश्चित्ताहमपराधं विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निवृत्तं खस्थीभूतं हृदयमस्येति निवृत्तहृदयः, क इव ? अपहृतभरोऽपसारितभारो भारवह इव, यथा ह्यपहृतभारो भारवहो निर्वृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः सुखंसुखेन सुखपरम्परावाप्त्या विहरति ॥ १२ ॥ १४ ॥ कायोत्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाह-- मूलम्-पच्चक्खाणेणं भंते ! जीवे किंजणयइ ? पच्चक्खाणेणं आसवदाराई निरंभइ ॥ १३ ॥ १५ ॥ ___ व्याख्या-प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाच पूर्वोपचितं कर्म क्षपयति । नमस्कारसहितादिकं प्रत्याख्यानं चेहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ॥ १३ ॥ १५॥ प्रत्याख्यानं च कृत्वा चैत्यसद्भावे तद्वन्दनं कार्य, तच्च स्तुतिस्तवमङ्गलं विना नेति तदाहमूलम्-थयथुइमंगलेणंभंते ! जीवे किं जणयइ ? थयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभंजण
यइ, नाणदंसणचरित्तबोहिलाभसंपण्णे अणं जीवे अंतकिरिअं कप्पविमाणोववत्तिअं आराहणं आराहेइ ॥१४॥१६॥
UTR-3