SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२०७॥ एकोनविंश मध्ययनम्. प्र८-१० योगेभ्यो निवर्तते, प्रशस्तयोगेषु च प्रवर्तते, प्रशस्तयोगप्रतिपन्नश्च जीवः अनन्तविषयतयाऽनन्ते ज्ञानदर्शने घ्नन्तीत्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, उपलक्षणं चैतन्मुक्तिप्राप्तेः तदर्थत्वात्सर्वप्रयासस्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्सितरेव फलत्वेन द्रष्टव्या ॥७॥९॥ आलोचनादिकं च सामायिकवतामेव तत्त्वतः स्यादिति तदाहमूलम् सामाइएणं भंते ! जीवे किं जणयइ ? सामाइएणं सबसावजजोगविरइं जणयई ॥८॥१०॥ व्याख्या-सामायिकेन सर्वसावद्ययोगविरतिं सकलसपापव्यापारोपरमं जनयति ॥८॥१०॥ सामायिकप्रतिपत्रा च तत्प्रणेतारोऽर्हन्तः स्तुत्या इति तत्स्तवमाहमूलम्-चउवीसत्थएणंभंते! जीवे किंजणयह ? चउवीसत्थएणं दंसणविसोहिंजणयड ॥९॥११॥ व्याख्या-स्पष्टम् ॥९॥११॥ स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकखीकृतिरिति तदाहमूलम्-वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीआगोअंकम्म खवेइ, उच्चागोअंनिबंधड, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेई, दाहिणभावं च णं जणयइ ॥ १० ॥ १२ ॥ व्याख्या-'सोहग्गं चत्ति' सौभाग्यं च सर्वजनस्पृहणीयतारूपं अप्रतिहतमस्खलितमाज्ञाफलं आज्ञासारं निर्वर्त UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy