SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१९५॥ अष्टाविंशमध्ययनम्. गा३४-३५ स्यात् ॥ ३२ ॥ अकषायं अनुदितकषायं क्षपितोपशमितकषायावस्थाभावि 'यथाख्यातं' जिनोक्तखरूपमनतिक्रान्तं, छन्नस्थस्योपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनो, जिनस्य वा केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनो भवतीति शेषः । 'एअंति' एतदनन्तरोक्तं सामायिकादिपञ्चभेदं चयस्य राशेः प्रक्रमाकर्मणां रिक्तं विरेकोऽभाव इत्यर्थः, तत्करोतीति चयरिक्तकरं चारित्रं भवत्याख्यातं जिनादिभिरिति गम्यते इति सूत्रद्वयार्थः ॥ ३३॥ सम्प्रति तपोरूपं चतुर्थं कारणमाहमूलम्-तवो अदुविहो वुत्तो, बाहिरभितरो तहा।बाहिरो छबिहो वुत्तो, एवमभितरो तवो॥३४॥ व्याख्या-अस्वाक्षरार्थः स्पष्टो भावार्थस्तु तपोध्ययने वक्ष्यते ॥ ३४ ॥ अथैषां मुक्तिमार्गत्वे कस्स कतरो | व्यापार इत्याहमूलम्-नाणेण जाणई भावे, दंसणेण य सइहे । चरित्तेण न गिण्हाइ, तवेण परिसुज्झइ ॥ ३५॥ व्याख्या-ज्ञानेन श्रुतादिना जानाति भावान् जीवादीन् , दर्शनेन च तानेव श्रद्धत्ते, चारित्रेण आश्रवद्वारनिरोधरूपेण न गृहाति नादत्ते कर्मेति गम्यते, तपसा परिशुध्यति पूर्वोपचितकर्मणः क्षपणात् शुद्धो भवति इति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति मोक्षफलभूतां गतिमाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy