SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन -॥१९४॥ अष्टाविंशमध्ययनम्. | (२८) मचरमजिनतीर्थयोरुपस्थापनां यावत् , तत्र हि छेदोपस्थापनीयभावेन तव्यपदेशाभावात् । यावत्कथिकं च तयोरेव क्षेत्रयोर्मध्यमार्हत्तीर्थेषु विदेहेषु च, तत्र खुपस्थापनाया अभावेन सामायिकव्यपदेश एव यावज्जीवं स्यात् । तथा 'छेदः' सातिचारस्य साधोर्निरतिचारस्य वा शिष्यस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदः, तद्युक्ता उपस्थापना महाव्रतारोपणा यत्र तच्छेदोपस्थापनं भवेत् द्वितीयम् । तथा परिहरणं परिहारो विशिष्टतपोङ्गीकारेण गच्छस्य त्यागस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं । तत्स्वरूपं चेदं-नव मुनयो गणानिर्गत्य जिनाभ्यर्णे परिहारविशुद्धिकं प्रतिपन्नपूर्वस्य जिनस्य वा पार्श्वे इदं प्रतिपद्यन्ते । तेष्वेको गुरुर्भवति, चत्वारस्तपः कुर्वन्ति, चत्वारस्तु तद्वैयावृत्त्यं । तपश्च तेषां ग्रीष्मकाले जघन्यमध्यमोत्कृष्टं चतुर्थषष्टाष्टमरूपं, शीतकाले तु षष्टाष्टमदशमरूपं, वर्षाकाले चाष्टमदशमद्वादशलक्षणं भवति । ते च पारणकेषु गुरुर्वैयावृत्त्यकराश्च नित्यमाचाम्लं कुर्वन्ति । षण्मासातिकमे तु तपस्करा वैयावृत्त्यं, वैयावृत्त्यकराश्च तपः प्रतिपद्यन्ते । तेषामपि षण्मासात्यये तन्मध्यादेको गुरुत्वं, गुरुस्तपः, अन्ये तु सप्त वैयावृत्त्यं खीकुर्वन्ति । अतीते तु सार्द्धवर्षे ते पुनः तदेव तपो जिनकल्प वा गच्छं वाऽभ्युपगच्छन्ति, तेषां यच्चारित्रं तत्परिहारविशुद्धिकमिति । इदं च भरतैरावतयोरेव प्रथमान्तिमतीर्थकृत्तीर्थे स्थानान्यत्रेति । 'सुहुमं तह संपरायं चत्ति' तथेत्यानन्तर्ये छन्दोमङ्गनिरासार्थ पदमध्येऽपि न्यस्तः, सूक्ष्मः किट्टीकरणात्सम्परायो लोभाख्यः कषायो यस्मिंस्तत् सूक्ष्मसम्परायं, इदं च क्षपक श्रेण्युपशमश्रण्योर्लोभाणुवेदनसमये UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy