________________
उत्तराध्ययन ॥१९३॥
| अष्टाविंशमध्ययनम्. गा३२-३३
व्याख्या-शकूनं शङ्कितं देशसर्वशङ्कारूपं, तदभावो निःशङ्कितं । तथा कांक्षणं कांक्षितं अन्यान्यदर्शनाभिलाषात्मक. तदभावो निःकांक्षितं । विचिकित्सा फलं प्रति सन्देहः, यद्वा विदो विज्ञास्ते च साधव एव तेषां जुगुप्सा निन्दा. तदभावो 'निर्विचिकित्सं' 'निर्विजुगुप्स' या, आर्षत्वाच सूत्रे एवं पाठः । 'अमूढा' ऋद्धिमत्कुतीर्थिकदर्शनेऽपि निन्द्यमस्मद्दर्शनमिति मोहहीना सा चासौ दृष्टिश्च बुद्धिरूपा अमूढदृष्टिः, सा च । अयं चतुर्विधोऽप्यान्तर आचार उक्तो बाबमाह-उपबृंहा दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धनं. स्थिरीकरणं खीकृतधर्मानुष्ठानं प्रति सीदतां स्थैर्यापादनं, तयोर्द्वन्द्वे उपहास्थिरीकरणे । वात्सल्यं धार्मिकजनस्योचितप्रतिपत्तिकरणं, प्रभावना खतीर्थोन्नतिचेष्टासु प्रवर्त्तनं, अनयोर्द्वन्द्वे वात्सल्यप्रभावने । 'अट्ठत्ति' अष्टामी दर्शनाचारा भवन्तीति शेषः इति सूत्रार्थः ॥ ३१ ॥ इत्थं ज्ञानदर्शनरूपं मुक्तिमार्गमुक्त्वा चारित्ररूपं तमाह-- मूलम्-सामाइअत्थ पढम, छेओवटावणं भवे बी।परिहारविसुद्धीअं, सुहुमं तह संपरायं च॥३२॥
अकसायमहक्खायं, छउमत्थस्स जिणस्स वा।एअंचयरित्तकर, चारित्तं होइ आहिअं ॥३३॥ व्याख्या-समो रागद्वेषरहितः, स चेहप्रक्रमाचित्तपरिणामस्तत्राऽऽयो गमनं समायः, स एव सामायिक, सर्व* सावद्ययोगत्यागः, 'त्थ' पूरणे, प्रथममायं । इदं च द्विधा, 'इत्वरं' 'यावत्कथिक' च । तत्रेत्वरं भरतैरावतयोः प्रथ
UTR-3