________________
उत्तराध्ययन ॥१९२॥
अष्टाविंशमध्ययनम्. (२८) गा३०-३१
१५
तिनं तावद्भावचारित्रमिति, दर्शने तु सम्यक्त्वे पुनः सति भक्तव्यं, भवति वा न वा, प्रक्रमाचारित्रं । किमित्येवमत आह-सम्यक्त्वचरित्रे युगपत्समुत्पद्यते इति शेषः, पूर्व वा चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पूर्व सम्यक्त्वं तदा तत्र चारित्रं भाज्यम् ॥ २९ ॥ अन्यच्च
मूलम्-नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा ।
अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निवाणं ॥ ३० ॥ व्याख्या-नादर्शनिनः सम्यक्त्वरहितस्य ज्ञानं सम्यग् ज्ञानं, ज्ञानेन विना ज्ञानरहिता न भवन्ति चरणगुणाः, तत्र चरणं व्रतादि, गुणाः पिण्डविशुद्ध्यादयः, अगुणिनोऽनन्तरोक्तगुणरहितस्य नास्ति मोक्षो निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते निर्वाणं मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्महात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्रद्यार्थः॥३०॥ अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगुणावाप्तिहेतुत्वमिति तान् दर्शयितुमाह
मूलम्-निस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्ठी अ।
उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ॥ ३१ ॥
UTR-3