________________
उत्तराध्ययन ॥१९ ॥
अष्टाविंशमध्ययनम्. गा२८-२९
क्वचित्केषाश्चिदन्तर्भावे न खेतावन्तो भेदाः सम्भवन्तीति भावनीयमित्येकादशसूत्रार्थः ॥ २७॥ कैः पुनर्लिङ्गैः सम्यक्त्वमस्तीति श्रद्धेयमित्याहमूलम्-परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वावि। वावण्णकुदंसणवजणा य सम्मत्तसद्दहणा॥२८॥ __ व्याख्या-परमास्तात्त्विकास्ते च ते अर्थाश्च जीवादयः परमार्थास्तेषु संस्तवस्तत्वरूपस्य पुनः पुनश्चिन्तनाकृतः परिचयः परमार्थसंस्तवः, 'वा' शब्दः समुच्चये, सुष्टु दृष्टाः उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्था आचार्यादयस्तत्सेवनं, चकारोऽनुक्तसंग्रहे, ततो यथाशक्ति तद्वैयावृत्त्यादिकरणं च, अपिः समुच्चये, 'वावण्णकुदंसणत्ति' दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना निहवादयः, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः, तेषां वर्जनं व्यापन्नकुदर्शनवर्जनं । सर्वत्र सूत्रत्वात्स्त्रीत्वं, चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽ नेनेति सम्यक्त्वश्रद्धानमिदं, एभिर्लिङ्गैः सम्यक्त्वं श्रद्धीयते इति भाव इति सूत्रार्थः ॥ २८ ॥ इत्यं सम्यक्त्वलिङ्गान्यभिधाय तस्यैव महात्म्यमुपदर्शयन्नाहमूलम् नत्थि चरित्तं सम्मत्त-विहूणं दंसणे उ भइअवं । सम्मत्तचरित्ताई, जुगवं पुत्वं व सम्मत्तं ॥२९॥ व्याख्या-नास्ति उपलक्षणत्वान्नासीन भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्रा
UTR-3