________________
उत्तराध्ययन ॥१८८॥
अष्टाविंशमध्ययनम्.
(२८)
गा२१-२२
व्याख्या-रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्थापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भवाद्देशत इति गम्यते, एतदपगमाच्च 'आणाएत्ति' आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वापि कुग्रहाभावाजीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः॥२०॥ सूत्ररुचिमाहमूलम्-जो सुत्तमहिजंतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायवो २१ __ व्याख्या-यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पूत्तौं सम्यक्त्वं, अङ्गेनाचारादिना बाह्येन चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ॥ २१ ॥ बीजरुचिमाहमूलम्-एगेण अणेगाई, पयाइं जो पसरई उ सम्मत्तं। उदए व तिल्लबिंदू,सो बीअरुइत्ति नायबो॥२२॥ ___ व्याख्या-एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाइं पयाइंति' विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तंति' सम्यक्त्ववानात्मा, इह सम्यक्त्वशन्दैन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात् , उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तैलबिन्दुः समग्रमुदकमाकामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिरिति ज्ञातव्यः ॥ २२ ॥ अभिगमरुचिमाह
UTR-3