________________
उत्तराध्ययन ॥१८९॥
अष्टाविंशमध्ययनम्. गा २३-२५
मूलम् सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिदं ।
एक्कारसअंगाई, पइण्णगं दिट्टिवाओ अ ॥ २३ ॥ व्याख्या-स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमऊं, च-शब्दादुपानानि च उपपातिकादीनि ॥ २३ ॥ विस्ताररुचिमाहमूलम्-दवाणं सवभावा, सबपमाणेहिं जस्स उवलद्धा। सवाहिं नयविहिहि अ, वित्थाररुइत्ति नायबो२४
व्याख्या-द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यखोपलब्धाः, प्रत्यक्षादीनां मध्ये यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, 'सबाहिति' सर्वैयविधिभिनेंगमादिनयभेदैः, चः समुचये, स विस्ताररुचितिव्यः ॥ २४ ॥ क्रियारुचिमाह
मूलम्-दसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु।
जो किरिआ-भावरुई, सो खलु किरिआरुई नाम ॥ २५ ॥ न्याख्या-दर्शनज्ञानचरित्रे तपोविनये सत्याश्चैताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभाषरुचिः
UTR-3