________________
उत्तराध्ययन ॥१८७॥
अष्टाविंशमध्ययनम्. गा १८-२०
यश्च 'रोएइ उत्ति' रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जीवादीनिति गम्यते, 'निसग्गोत्ति' स निसर्गरुचि यः ॥ १७ ॥ अमुमेवार्थ स्पष्टतरमाह
मूलम्-जो जिणदिट्टे भावे, चउबिहे सहहइ सयमेव ।
एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायवो ॥ १८ ॥ व्याख्या-यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्यक्षेत्रकालभावभेदैनामादिभेदैर्वा श्रद्दधाति खयमेव परोपदेशं विना, कथं श्रद्दधातीत्याह-एवमेवैतद्यथा जिनदृष्टं जीवादि नान्यथेति भावः, चः समुच्चये, स निसर्गरुचिरिति ज्ञेयः ॥ १८॥ उपदेशरुचिमाहमूलम्-एए चेव उ भावे, उवइटे जो परेण सद्दहई। छउमस्थेण जिणेण व, उवएसरुइत्ति नायवो १९
व्याख्या-एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति, कीदृशेन परेणेत्याह-छद्मस्थेनानुत्पन्नकेवलज्ञानेन जिनेन वा सातकेवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥ १९ ॥ अथ आज्ञारुचिमाहमूलम्-रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ।आणाए रोअंतो, सो खलु आणाई नाम२०
UTR-3