SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१८६॥ अष्टाविंशमध्ययनम्. (२८) गा १७ व्याख्या-निस्सग्गुवएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः खभावस्तेन रुचिस्तत्वाभिलाषोऽस्वेति निसर्गरुचिः १ । उपदेशो गुर्वादिकथनं तेन रुचिर्यस्वेत्युपदेशरुचिः २ । आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा ३ । 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकं योगात्सूत्रेणागमन रुचिर्यस्य स सूत्ररुचिः ४। बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः५ । अनयोः समाहारः, एवेति समुच्चये। अभिगमो विज्ञानं, विस्तरो व्यासस्ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिर्विस्ताररुचिश्चेति ६-७ तथा क्रिया अनुष्ठानं, संक्षेपः संग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगाक्रियारुचिः संक्षेपरुचिर्धर्मरुचिश्च-८-९-१०-विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसंक्षेपार्थः ॥ १६ ॥ व्यासार्थ तु खत एवाह सूत्रकृत्मूलम्-भूअत्येणाहिगया, जीवाऽजीवाय पुण्ण-पावं च। सहसंमुइआ आसवसंवरे अरोएइ उ निसग्गो व्याख्या-भूअत्थेणत्ति' भावप्रधानत्वान्निर्देशस्य भूतार्थत्वेन सद्भता एते अर्था इत्येवंरूपेण निर्णयेनाधिगताः परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह-'सहसंमुइअत्ति' सोपस्कारत्वात् सूत्रत्वाच सहात्मना या सङ्गता मतिः सा सहसंमतिस्तया, कोर्थः ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च येनाधिगता इतियोगः । UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy